Show notes
तस्य वाचकः प्रणवः।।1.27।।तज्जपस्तदर्थभावनम्।।1.28।।ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च।।1.29।।व्याधिस्त्यानसंशयमप्रमादालस्याविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपास्तेऽन्तरायाः।।1.30।।दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः।।1.31।।तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः।।1.32।।मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश्चित्तप्रसादनम्।।1.33।।प्रच्छर्दनविधारणाभ्यां वा प्राणस्य।।1.34।।विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धनी।।1.35।।विशोका वा ज्योतिष्मति।।1.36वीतरागविषयं वा चित्तम्।।1.37।।स्वप्ननिद्राज्ञानालम्बनं वा।।1.38।।यथाभिमतध्यानाद्वा।।1.39।।



