Show notes
परमाणुपरममहत्त्वान्तोऽस्य वशीकारः।।1.40।।क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः।।1.41।।तत्र शब्दार्थज्ञानविकल्पैः संकीर्णा सवितर्का समापत्तिः।।1.42।।स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का।।1.43।।एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता।।1.44।।सूक्ष्मविषयत्त्वं चालिङ्गपर्यवसानम्।।1.45।।ता एव सबीजः समाधिः।।1.46।।निर्विचारवैशारद्येऽध्यात्मप्रसादः।।1.47।ऋतंभरा तत्र प्रज्ञा।।1.48।। श्रुतानुमानप्रज्ञाभ्यामन्यविषयाविशेषार्थत्वात्।।1.49।।तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी।।1.50।।तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः।।1.51।।



