Show notes
स तु दीर्घकालनैरंन्तर्यसत्कारासेवितो दृढ़भूमिः।।1.14।।दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम्।।1.15।।तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम्।।1.16।।वितर्कविचारानन्दास्मितारूपानुगमात्संप्रज्ञातः।।1.17।।विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः।।1.18।।भवप्रत्ययो विदेहप्रकृतिलयानाम्।।1.19।।श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम्।।1.20।।तीव्रसंवेगानामासन्नः।।1.21।।मृदुमध्याधिमात्रत्वात्ततोऽपि विशेषः।।1.22।।ईश्वरप्रणिधानाद्वा।।1.23।।क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः।।1.24।।तत्र निरतिशयं सर्वज्ञबीजम्।।1.25।।स एषः पूर्वेषामपि गुरुः कालेनानवच्छेदात्।।1.26।।



