Show notes
अवाच्यवादांश्च बहून् वदिष्यन्ति तवाहिताः।निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम्।।2.36।।न हि ज्ञानेन सदृशं पवित्रमिह विद्यते।तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति।।4.38।।इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत।सर्वभूतानि संमोहं सर्गे यान्ति परन्तप।।7.27।।अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते।इति मत्वा भजन्ते मां बुधा भावसमन्विताः।।10.8।।निर्मानमोहा जितसङ्गदोषाअध्यात्मनित्या विनिवृत्तकामाः।द्वन्द्वैर्विमुक्ताः सुखदुःखसंज्ञैर्गच्छन्त्यमूढाः पदमव्ययं तत्।।15.5।।



