Show notes
योगिनामपि सर्वेषां मद्गतेनान्तरात्मना।श्रद्धावान्भजते यो मां स मे युक्ततमो मतः।।6.47।। साधिभूताधिदैवं मां साधियज्ञं च ये विदुः।प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः।।7.30।।वेदेषु यज्ञेषु तपःसु चैवदानेषु यत्पुण्यफलं प्रदिष्टम्।अत्येति तत्सर्वमिदं विदित्वायोगी परं स्थानमुपैति चाद्यम्।।8.28।।मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु।मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः।।9.34।।अथवा बहुनैतेन किं ज्ञातेन तवार्जुन।विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्।।10.42।।



